हेमपुष्पिका

सुधाव्याख्या

सेति । हेमवर्ण पुष्पमस्याः । ‘पाककर्ण-' (४.१.५४) इति ङीष् । 'स्याद्धेमपुष्पिका यूथ्यां चम्पको हेमपुष्पक: (इति मेदिनी) ॥


प्रक्रिया

हेम + सु + पुष्प + सु - अनेकमन्यपदार्थे 2.2.24, कृत्तद्धितसमासाश्च 1.2.46
हेमपुष्प - सुपो धातुप्रातिपदिकयोः 2.4.71
हेमपुष्प + ङीष् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
हेमपुष्प + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हेमपुष्प् + ई - यस्येति च 6.4.148
हेमपुष्पी + सु + कन् - संज्ञायां कन् 5.3.75
हेमपुष्पी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
हेमपुष्पिक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
हेमपुष्पिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
हेमपुष्पिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
हेमपुष्पिका - अकः सवर्णे दीर्घः 6.1.101
हेमपुष्पिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हेमपुष्पिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हेमपुष्पिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68