अम्बष्ठा

सुधाव्याख्या

अम्बेव मातेव तिष्ठति । ‘सुपि स्थ:' (३.२.४) इति कः । अम्बाम्ब (८.३.९७) इति षत्वम् । ‘ड्यापोः' (६.३.६३) इति ह्रस्वः । -अम्बे तिष्ठति – इति स्वामी । ‘अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । ‘अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' इति विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तकस्याप्यपायः ।
अम्बा + सु + स्था + क - सुपि स्थः 3.2.4, उपपदमतिङ् 2.2.19
अम्बा + स्था + क - सुपो धातुप्रातिपदिकयोः 2.4.71
अम्बा + स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अम्बा + स्थ् + अ - आतो लोप इटि च 6.4.64
अम्बा + ष्ठ् + अ - अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 8.3.97
अम्बष्ठ - ङ्यापोः संज्ञाछन्दसोर्बहुलम् 6.3.63
अम्बष्ठ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अम्बष्ठ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्बष्ठा - अकः सवर्णे दीर्घः 6.1.101
अम्बष्ठा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अम्बष्ठा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम्बष्ठा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68