अमरकोशः


श्लोकः

कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः । भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपण ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भस्मगर्भा भस्मगर्भा स्त्रीलिङ्गः सा कपिलवर्णपुष्पा सती भस्मगर्भाच्यते । बहुव्रीहिः समासः आकारान्तः
2 शिरीष शिरीषः पुंलिङ्गः शृणाति शीर्यते वा। ईषन् उणादिः अकारान्तः
3 कपीतन कपीतनः पुंलिङ्गः कपीनां कपेर्वर्णस्य वा ईतनः ॥ तत्पुरुषः समासः अकारान्तः
4 भण्डिल भण्डिलः पुंलिङ्गः भण्डति । इलच् उणादिः अकारान्तः
5 चाम्पेय चाम्पेयः पुंलिङ्गः चम्पाया अपत्यम् । ढक् तद्धितः अकारान्तः
6 चम्पक चम्पकः पुंलिङ्गः चम्पयति, चम्प्यते वा । क्वुन् उणादिः अकारान्तः
7 हेमपुष्पक हेमपुष्पकः पुंलिङ्गः हेमवर्णं पुष्पमस्य । बहुव्रीहिः समासः अकारान्तः