चम्पकः

सुधाव्याख्या

चम्पयति, चम्प्यते वा । ‘चपि गत्याम्' (चु० प० से०) । क्वुन् (उ० २.३२) ॥


प्रक्रिया

धातुः - चपिँ गत्याम्


चप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
च नुम् प् - इदितो नुम् धातोः 7.1.58
चन्प् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चंप् - नश्चापदान्तस्य झलि 8.3.24
चम्प् - अनुस्वारस्य ययि परसवर्णः 8.4.58
चम्प् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
चम्प् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
चम्प् + अक - युवोरनाकौ 7.1.1
चम्पक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चम्पक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चम्पक + रु - ससजुषो रुः 8.2.66
चम्पक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चम्पकः - खरवसानयोर्विसर्जनीयः 8.3.15