भण्डिलः

सुधाव्याख्या

भण्डति । ‘भडि कल्याणे' (चु० प० से०) । ‘सलिकल्यनि-' (उ० १.५४) इतीलच् । —बाहुल कात् इति मुकुटस्तु चिन्त्यः ॥ रलयोरेकत्वात् भण्डिरोऽपि । ‘भण्डिरो भण्डिलो ना' इति वाचस्पतिः ॥


प्रक्रिया

धातुः - भडिँ कल्याणे


भड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भ नुम् ड् - इदितो नुम् धातोः 7.1.58
भन्ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भंड् - नश्चापदान्तस्य झलि 8.3.24
भण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
भण्ड् + इलच् - सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (१.५४) । उणादिसूत्रम् ।
भण्ड् + इल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भण्डिल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भण्डिल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भण्डिल + रु - ससजुषो रुः 8.2.66
भण्डिल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भण्डिलः - खरवसानयोर्विसर्जनीयः 8.3.15