अमरकोशः


श्लोकः

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः । पिचुमर्दश्च निम्बेऽथ पिच्छिलाऽगुरुशिंशपा ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अरिष्ट अरिष्टः पुंलिङ्गः न रिष्टमशुभमस्मात् । तत्पुरुषः समासः अकारान्तः
2 सर्वतोभद्र सर्वतोभद्रः पुंलिङ्गः सर्वतो भद्रं यस्मात् । बहुव्रीहिः समासः अकारान्तः
3 हिङ्गुनिर्यास हिङ्गुनिर्यासः पुंलिङ्गः हिङ्ग्वाकारो हिङ्गुगन्धो वा निर्यासोऽस्य । बहुव्रीहिः समासः अकारान्तः
4 मालक मालकः पुंलिङ्गः मलते । ण्वुल् कृत् अकारान्तः
5 पिचुमर्द पिचुमर्दः पुंलिङ्गः पिचुं कुष्ठभेदं मर्दयति । तत्पुरुषः समासः अकारान्तः
6 निम्ब निम्बः पुंलिङ्गः निव्वँति स्वास्थ्यम् । अच् कृत् अकारान्तः
7 पिच्छिला पिच्छिला स्त्रीलिङ्गः पिच्छास्त्यस्याः । इलच् तद्धितः आकारान्तः
8 अगुरु अगुरु नपुंसकलिङ्गः न गुरुरस्मात् । तत्पुरुषः समासः उकारान्तः
9 शिंशपा शिंशपा स्त्रीलिङ्गः शीघ्रं शीर्षं वा पाति । तत्पुरुषः समासः आकारान्तः