पिचुमर्दः

सुधाव्याख्या

पिचुं कुष्ठभेदं मर्दयति । ‘मृद क्षोदे' (क्र्या० प० से०) । णिच् (३.१.२६) । ‘कर्मण्यण्' (३.२.१) पिचुं मन्दयति, इति 'पिचुमन्दः' इति स्वामी ॥


प्रक्रिया

धातुः - मृदँ क्षोदे


मृद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृद् + णिच् - हेतुमति च 3.1.26
मृद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मर्द् + इ - पुगन्तलघूपधस्य च 7.3.86
पिचु + अम् + मर्द् + इ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
पिचु + मर्द् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
पिचु + मर्द् + अण् - णेरनिटि 6.4.51
पिचुमर्द् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पिचुमर्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिचुमर्द + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिचुमर्द + रु - ससजुषो रुः 8.2.66
पिचुमर्द + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिचुमर्दः - खरवसानयोर्विसर्जनीयः 8.3.15