शिंशपा

सुधाव्याख्या

शीघ्रं शीर्षं वा पाति । ‘आत:' (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा ‘शिम्” इत्यव्यक्तं शब्दं शब्देन वा शपति । ‘शप आक्रोशे' (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३४) । शिम्बाभिः शपति, इति वा । ‘देविका शिंशपा-' (७.३.१) इति निर्देशाद्वाशब्दलोपः । द्वितालव्या शिंशपा । ‘श्वश्रूस्तथा श्वशुरशाश्वतशिंशपाश्च' इति शभेदात् ॥ अगुरुसारा शिंशपा ‘अगुरुशिंशपा' इत्येकं नाम - इति स्वामी । तन्न । उक्तरुद्रविरोधात् ॥