अमरकोशः


श्लोकः

पीतद्रु: सरल: पूतिकाष्ठं चाथ द्रुमोत्पलः । कर्णिकार: परिव्याधे लकुचो लिकुचो डहुः ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पीतद्रु पीतद्रुः पुंलिङ्गः पीतश्चासौ द्रुश्च । तत्पुरुषः समासः उकारान्तः
2 सरल सरलः पुंलिङ्गः सरति । अलच् बाहुलकात् अकारान्तः
3 पूतिकाष्ठ पूतिकाष्ठम् नपुंसकलिङ्गः पूते: पावनस्य काष्ठम् । तत्पुरुषः समासः अकारान्तः
4 द्रुमोत्पल द्रुमोत्पलः पुंलिङ्गः द्रुमे उत्पलं तदाकारं पुष्पमस्य । --‘ बहुव्रीहिः समासः अकारान्तः
5 कर्णिकार कर्णिकारः पुंलिङ्गः कर्णिकामियर्ति । तत्पुरुषः समासः अकारान्तः
6 परिव्याध परिव्याधः पुंलिङ्गः परिविध्यति । कृत् अकारान्तः
7 लकुच लकुचः पुंलिङ्गः लक्यते । उच बाहुलकात् अकारान्तः
8 लिकुच लिकुचः पुंलिङ्गः उच बाहुलकात् अकारान्तः
9 डहु डहुः पुंलिङ्गः दहति, तोहति, वा । कु उणादिः उकारान्तः