डहुः

सुधाव्याख्या

दहति, तोहति, वा । ‘दह भस्मीकरणे (भ्वा० प० अ०) । ‘तुहिर् अर्दने' (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) निपातितः ॥ ‘अडहुः' इत्यपि – इति स्वामी ॥