पीतद्रुः

सुधाव्याख्या

पीति । पीतश्चासौ द्रुश्च । -पीयते चक्षुषाऽयम् । ‘पा पाने (भ्वा० प० से०) । ‘प: किञ्च' इति तः । ‘घुमास्था-' (६.४.६६) इतीत्वम् - इति मुकुटः । तच्चिन्त्यम् । उक्तसूत्रादर्शनात् । क्तप्रत्ययेन गतार्थत्वाच्च ॥