अमरकोशः


श्लोकः

एतस्य कलिका गन्धफली स्यादथ केसरे । वकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गन्धफली गन्धफली स्त्रीलिङ्गः गन्धः फलं साध्यमस्याः । बहुव्रीहिः समासः ईकारान्तः
2 केसर केसरः पुंलिङ्गः केसरा: सन्त्यस्य । अच् तद्धितः अकारान्तः
3 वकुल वकुलः पुंलिङ्गः वङ्कते । उलच् बाहुलकात् अकारान्तः
4 वञ्जुल वञ्जुलः पुंलिङ्गः वञ्जिवति । उलच् बाहुलकात् अकारान्तः
5 अशोक अशोकः पुंलिङ्गः न शोकोऽस्मात् । तत्पुरुषः समासः अकारान्तः
6 करक करकः पुंलिङ्गः करोति दोषाभावम् । वुन् उणादिः अकारान्तः
7 दाडिम दाडिमः पुंलिङ्गः दलनं दालः । इमप् तद्धितः अकारान्तः