दाडिमः

सुधाव्याख्या

दलनं दालः । ‘दल विशरणे' (भ्वा० प० से०) । घञ् (३.३.१८) । दालेन निर्वृत्तः । ‘भावप्रत्ययान्तादिमप्’ (वा० ४.४.२०) । डलयोरेकत्वम् । ‘दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु' इति मेदिनी ॥ दाडिम्बोऽपि । ‘दाडिम्बसारपिण्डीरस्वाद्वम्लशुकवल्लभाः' इति रभसात् ॥