केसरः

सुधाव्याख्या

अथेति । केसरा: सन्त्यस्य । अर्श आद्यच् (५.२.१२७) । के जले सरति । ‘सृ गतौ' (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) वा । ‘केसरं हिङ्गुनि क्लीबं किञ्जल्के न स्त्रियां पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' इति मेदिनी ॥