अमरकोशः


श्लोकः

अल्पा शमी शमीर: स्याच्छमी सक्तुफला शिवा । पिण्डीतको मरुवकः श्वसन: करहाटकः ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शमीर शमीरः पुंलिङ्गः अल्पा शमी । तद्धितः अकारान्तः
2 शमी शमी स्त्रीलिङ्गः शमयति रोगान् । अच् कृत् ईकारान्तः
3 सक्तुफला सक्तुफला स्त्रीलिङ्गः सक्तुवत् फलमस्याः । बहुव्रीहिः समासः आकारान्तः
4 शिवा शिवा स्त्रीलिङ्गः शिवं करोति । अच् कृत् आकारान्तः
5 पिण्डीतक पिण्डीतकः पुंलिङ्गः पिण्डीं तनोति । तत्पुरुषः समासः अकारान्तः
6 मरुवक मरुवकः पुंलिङ्गः मरुं वाति । तत्पुरुषः समासः अकारान्तः
7 श्वसन श्वसनः पुंलिङ्गः निर्जलेऽपि श्वसिति । ल्यु कृत् अकारान्तः
8 करहाटक करहाटकः पुंलिङ्गः करं हाटयति । तत्पुरुषः समासः अकारान्तः