करहाटकः

सुधाव्याख्या

करं हाटयति । ‘हट दीप्तौ’ (भ्वा० प० से०) । णिच् (३.१.२६) । ‘कर्मण्यण्’ (३.२.२) । स्वार्थे कन् (५.३.७५) । ‘करहाटः शिफाकन्दे पद्मस्य मदनद्रुमे ॥


प्रक्रिया

धातुः - हटँ दीप्तौ


हट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हट् + णिच् - हेतुमति च 3.1.26
हट् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
हाट् + इ - अत उपधायाः 7.2.116
कर + अम् + हाट् + इ + अण् - ह्वावामश्च 3.2.2, उपपदमतिङ् 2.2.19
कर + हाट् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कर + हाट् + अण् - णेरनिटि 6.4.51
करहाट + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करहाट + सु + कन् - संज्ञायां कन् 5.3.75
करहाट + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
करहाटक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करहाटक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
करहाटक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करहाटक + रु - ससजुषो रुः 8.2.66
करहाटक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करहाटकः - खरवसानयोर्विसर्जनीयः 8.3.15