पिण्डीतकः

सुधाव्याख्या

पिण्डीति । पिण्डीं तनोति । ‘अन्येभ्योऽपि' (वा० ३.२.१०१) इति डः । ‘संज्ञायां कन्' (५.३.७५) । ‘पिण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे' ॥


प्रक्रिया

धातुः - तनुँ विस्तारे


तन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिण्डी + अम् + तन् + ड - अन्येष्वपि दृश्यते 3.2.101, उपपदमतिङ् 2.2.19
पिण्डी + तन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
पिण्डी + तन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पिण्डी + त् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पिण्डीत + सु + कन् - संज्ञायां कन् 5.3.75
पिण्डीत + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पिण्डीतक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पिण्डीतक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिण्डीतक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिण्डीतक + रु - ससजुषो रुः 8.2.66
पिण्डीतक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिण्डीतकः - खरवसानयोर्विसर्जनीयः 8.3.15