अमरकोशः


श्लोकः

इङ्गुदीतापसतरुः भूर्जे चर्मिमृदुत्वचौ । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयो: ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इङ्गुदी इङ्गुदी पुंलिङ्गः, स्त्रीलिङ्गः इङ्गनम् । तत्पुरुषः समासः ईकारान्तः
2 तापसतरु तापसतरुः पुंलिङ्गः तपस्विन उपयुक्तस्त ॥ उकारान्तः
3 भूर्ज भूर्जः पुंलिङ्गः भृरूर्जोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
4 चर्मिन् चर्मी पुंलिङ्गः प्रशस्तं चर्मास्यास्ति । इनि तद्धितः नकारान्तः
5 मृदुत्वच् मृदुत्वक् पुंलिङ्गः मृदुस्त्वगस्य ॥ बहुव्रीहिः समासः चकारान्तः
6 पिच्छिला पिच्छिला स्त्रीलिङ्गः पिच्छा शाल्मलिनिर्यासोऽस्या अस्ति । इलच् तद्धितः आकारान्तः
7 पूरणी पूरणी स्त्रीलिङ्गः पूरयति । ल्युट् कृत् ईकारान्तः
8 मोचा मोचा स्त्रीलिङ्गः मुञ्चति रसम् । अच् कृत् आकारान्तः
9 स्थिरायु स्थिरायुः पुंलिङ्गः स्थिरमायुर्यस्याः । बहुव्रीहिः समासः उकारान्तः
10 शाल्मलि शाल्मलिः पुंलिङ्गः, स्त्रीलिङ्गः शालयति । तत्पुरुषः समासः इकारान्तः