इङ्गुदी

सुधाव्याख्या

अथेति । इङ्गनम् । ‘इगि गतौ’ (भ्वा० प० से०) । घञ् । (३.३.१८) । इङ्गं द्यति । ‘दो अवखण्डने (दि० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । ‘जाते:' (४.१.५३) इति ङीष् ॥


प्रक्रिया

धातुः - इगिँ गतौ , दो अवखण्डने


इगिँ गतौ
इग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्ग् - इदितो नुम् धातोः 7.1.58
इग् - नश्चापदान्तस्य झलि 8.3.24
इङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
इङ्ग् + घञ् - भावे 3.3.18
इङ्ग् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दो अवखण्डने
इङ्ग + अम् + दो + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
इङ्ग + दो + क - सुपो धातुप्रातिपदिकयोः 2.4.71
इङ्ग + दो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इङ्ग + दा + अ - आदेच उपदेशेऽशिति 6.1.45
इङ्ग + द् + अ - आतो लोप इटि च 6.4.64
इङ्गुद - पृषोदरादीनि यथोपदिष्टम् 6.3.109
इङ्गुद + ङीष् - जातेरस्त्रीविषयादयोपधात्‌ 4.1.63
इङ्गुद + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इङ्गुद् + ई - यस्येति च 6.4.148
इङ्गुदी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इङ्गुदी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इङ्गुदी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68