शाल्मलिः

सुधाव्याख्या

शालयति । ‘शल संचलने' (भ्वा० आ० से०) । णिजन्तः । क्विप् (३.२.१७८) । मलते । ‘मल धारणे' (भ्वा० आ० से०) । ‘सर्व धातुभ्य इन्’ (उ० ४.११८) । शाल् चासौ मलिश्च ॥


प्रक्रिया

धातुः - शलँ चलनसंवरणयोः , मलँ धारणे


शलँ चलनसंवरणयोः
शल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शल् + णिच् - हेतुमति च 3.1.26
शल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शाल् + इ - अत उपधायाः 7.2.116
शाल् + इ + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
शाल् + क्विप् - णेरनिटि 6.4.51
शाल् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शाल् - वेरपृक्तस्य 6.1.67
मलँ धारणे
मल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मल् + इन् - सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
मलि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शाल् + सु + मलि + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
शाल् + मलि - सुपो धातुप्रातिपदिकयोः 2.4.71
शाल्मलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शाल्मलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शाल्मलि + रु - ससजुषो रुः 8.2.66
शाल्मलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शाल्मलिः - खरवसानयोर्विसर्जनीयः 8.3.15