अमरकोशः


श्लोकः

उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उदुम्बर उदुम्बरः पुंलिङ्गः उल्लङ्घितमम्बरमनेन । अरन् बाहुलकात् अकारान्तः
2 जन्तुफल जन्तुफलः पुंलिङ्गः जन्तवः फलेऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 यज्ञाङ्ग यज्ञाङ्गः पुंलिङ्गः यज्ञमङ्गति । अण् कृत् अकारान्तः
4 हेमदुग्धक हेमदुग्धकः पुंलिङ्गः हेमवर्णं दुग्धमस्य । बहुव्रीहिः समासः अकारान्तः
5 कोविदार कोविदारः पुंलिङ्गः कुं भूमिं विदृणाति । अण् कृत् अकारान्तः
6 चमरिक चमरिकः पुंलिङ्गः चमरमस्यास्ति । ठन् तद्धितः अकारान्तः
7 कुद्दाल कुद्दालः पुंलिङ्गः कुमुद्दालयति । अण् कृत् अकारान्तः
8 युगपत्रक युगपत्रकः पुंलिङ्गः युगं युग्मं पत्रमस्य ॥ बहुव्रीहिः समासः अकारान्तः