उदुम्बरः

सुधाव्याख्या

उद्विति । उल्लङ्घितमम्बरमनेन । उदतिशयेनाम्बते वा । 'अबि शब्दे' (भ्वा० आ० से०) । बाहुलकादरन् । पृषोदरादिः (६.३.१०९) । ‘उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रेऽपि स्यान्नपुंसकम्' इति मेदिनी । मुकुटस्तु मेदिनीसंमत्या टवर्गतृतीयमध्यमप्याह । तन्न । तत्र मध्यवर्णनियमाभावात् । आद्यन्तयोरेव नियमात् ॥


प्रक्रिया

धातुः - अबिँ शब्दे


अब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुम् + ब् - इदितो नुम् धातोः 7.1.58
अ + न् + ब् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अंब् - नश्चापदान्तस्य झलि 8.3.24
अम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
उत् + अम्ब् + अरन् - बाहुलकात् ।
उत् + अम्बर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उदुम्बर - पृषोदरादीनि यथोपदिष्टम् 6.3.109
उदुम्बर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उदुम्बर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उदुम्बर + रु - ससजुषो रुः 8.2.66
उदुम्बर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उदुम्बरः - खरवसानयोर्विसर्जनीयः 8.3.15