अमरकोशः


श्लोकः

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफल: पुष्पफलदन्तशठावपि ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अश्वत्थ अश्वत्थः पुंलिङ्गः शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति । कृत् अकारान्तः
2 कपित्थ कपित्थः पुंलिङ्गः कपयस्तिष्ठन्त्यत्र । अकारान्तः
3 दधित्थ दधित्थः पुंलिङ्गः दधिवर्णो द्रवस्तिष्ठत्यस्मिन् ॥ अकारान्तः
4 ग्राहिन् ग्राही पुंलिङ्गः गृह्णाति । णिनि कृत् नकारान्तः
5 मन्मथ मन्मथः पुंलिङ्गः मननम् । क्विप् कृत् अकारान्तः
6 दधिफल दधिफलः पुंलिङ्गः दधि फलेऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
7 पुष्पफल पुष्पफलः पुंलिङ्गः पुष्पयुक्तं फलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 दन्तशठ दन्तशठः पुंलिङ्गः दन्तानां शठ इव । बहुव्रीहिः समासः अकारान्तः