अश्वत्थः

सुधाव्याख्या

शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति । ‘सुपि स्थ:' (३.२.४) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा अश्वत्थं जलमस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘आपः प्रजाहितं शीतमश्वत्थं पवनं विषम्' इति केशरमाला । ‘अश्वत्थ: पिप्पलद्रौ स्यादश्वत्था पूर्णिमा मता' ॥ पञ्च पिप्पलवृक्षस्य ।


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्त्तापाये नैमित्तिकस्याप्यपायः ।
नञ् + श्व + सु - नञ्‌ 2.2.6
नञ् + श्व - सुपो धातुप्रातिपदिकयोः 2.4.71
न + श्व - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + श्व - नलोपो नञः 6.3.73
अ + श्व + स्था + क - सुपि स्थः 3.2.4
अश्व + स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अश्व + स्थ् + अ - आतो लोप इटि च 6.4.64
अश्वत्थ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
अश्वत्थ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अश्वत्थ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अश्वत्थ + रु - ससजुषो रुः 8.2.66
अश्वत्थ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अश्वत्थः - खरवसानयोर्विसर्जनीयः 8.3.15