मन्मथः

सुधाव्याख्या

मननम् । ‘मन ज्ञाने (दि० आ० अ०) । सम्पदादिः (वा० ३.३.१०८) । ‘गम: क्वौ’ ‘गमादीनाम्' (६.४.४०) इति नलोपः । तुक् (६.१.७१) । मथति । ‘मथे विलोडने' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मतो मथः । ‘मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ॥


प्रक्रिया

धातुः - मनँ ज्ञाने , मथेँ विलोडने


मनँ ज्ञाने
मन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
मन् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन् - वेरपृक्तस्य 6.1.67
- गमः क्वौ 6.4.40
म + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मथेँ विलोडने
मथ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मथ् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
मथ् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मत् + ङस् + मथ + सु - षष्ठी 2.2.8
मत् + मथ - सुपो धातुप्रातिपदिकयोः 2.4.71
मन्मथ - यरोऽनुनासिकेऽनुनासिको वा 8.4.45
मन्मथ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मन्मथ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्मथ + रु - ससजुषो रुः 8.2.66
मन्मथ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्मथः - खरवसानयोर्विसर्जनीयः 8.3.15