अमरकोशः


श्लोकः

वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः । पीलौ गुडफल: स्रंसी तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वानप्रस्थ वानप्रस्थः पुंलिङ्गः अण् तद्धितः अकारान्तः
2 मधुष्ठील मधुष्ठीलः पुंलिङ्गः कृत् अकारान्तः
3 मधूलक मधूलकः पुंलिङ्गः कृत् अकारान्तः
4 पीलु पीलुः पुंलिङ्गः उणादिः उकारान्तः
5 गुडफल गुडफलः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
6 स्रंसिन् स्रंसी पुंलिङ्गः णिनि कृत् नकारान्तः