मधूलकः

सुधाव्याख्या

जलेति । अत्र मधूके । मधु लाति । ‘ला आदाने (अ० प० अ०) ।‘आतोऽनुप-' (३.२.३) इति कः । 'अन्येषामपि-' (६.३.१३७) इति दीर्घः । स्वार्थे कन् (५.३.७५) ॥ ‘गिरिजेऽत्र' इति मूलपाठः - इति सुभूत्यादयः । ‘गौरशाको मधूकोऽन्यो गिरिज: सोऽल्पपत्रकः' इति माधवः । ‘मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः' इति स्वामी ॥ एकम् जलजमधूकस्य ।