अमरकोशः


श्लोकः

समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुनपुंसकम् ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समन्तदुग्धा समन्तदुग्धा स्त्रीलिङ्गः समन्ताद् दुग्धमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
2 वेल्ल वेल्लम् पुंलिङ्गः, नपुंसकलिङ्गः वेल्लति अच् कृत् अकारान्तः
3 अमोघ अमोघा स्त्रीलिङ्गः न मोघा । तत्पुरुषः समासः अकारान्तः
4 चित्रतण्डुल चित्रतण्डुला स्त्रीलिङ्गः चित्रास्तण्डुला अस्याः ॥ बहुव्रीहिः समासः अकारान्तः
5 तण्डुल तण्डुलः पुंलिङ्गः तड्यते । निपातनम् उणादिः अकारान्तः
6 कृमिघ्न कृमिघ्नः पुंलिङ्गः कृमीन् हन्ति । तत्पुरुषः समासः अकारान्तः
7 विडङ्ग विडङ्गः पुंलिङ्गः, नपुंसकलिङ्गः विडति । अङ्गच् उणादिः अकारान्तः