तण्डुलः

सुधाव्याख्या

तड्यते । ‘तड आघाते' (चु० प० से०) । ‘सानसिंवर्णेसि-' (उ० ४.१०७) निपातः । ‘तण्डुलः स्याद्विडङ्गेऽपि धान्यादिनिकरे पुमान्’ (इति मेदिनी) ॥ तन्तुं कृमिसूत्रं लाति । कः (३.२.३) । ‘तन्दूलः' इति मुकुटः ॥


प्रक्रिया

धातुः - तडँ आघाते


तड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तण्डुल - सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः (४.१०७) । उणादिसूत्रम् ।
तण्डुल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तण्डुल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तण्डुल + रु - ससजुषो रुः 8.2.66
तण्डुल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तण्डुलः - खरवसानयोर्विसर्जनीयः 8.3.15