विडङ्गः

सुधाव्याख्या

विडति । ‘विड भेदने’ (तु० प० से०) । ‘विडादिभ्यः कित्' (उ० १.१२१) इत्यङ्गच् । 'विडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम्' (इति मेदिनी) ॥


प्रक्रिया

धातुः - बिलँ भेदने


बिल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बिड् - डलयोरेकत्वम् ।
विड् - वबयोरभेदः ।
विड् + अङ्गच् - विडादिभ्यः कित् (१.१२१) । उणादिसूत्रम् ।
विड् + अङ्ग - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विडङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विडङ्ग + अम् - अतोऽम् 7.1.24
विडङ्गम् - अमि पूर्वः 6.1.107