अमरकोशः


श्लोकः

दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि । वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दार्वी दार्वी स्त्रीलिङ्गः दीर्यते । ञुण् उणादिः ईकारान्तः
2 पचंपचा पचंपचा स्त्रीलिङ्गः पचति । अच् कृत् आकारान्तः
3 दारुहरिद्रा दारुहरिद्रा स्त्रीलिङ्गः दारुश्चासौ हरिद्रा च ॥ तत्पुरुषः समासः आकारान्तः
4 पर्जनी पर्जनी स्त्रीलिङ्गः पिपर्ति । विच् कृत् ईकारान्तः
5 वचा वचा स्त्रीलिङ्गः वेति । अच् कृत् आकारान्तः
6 उग्रगन्धा उग्रगन्धा स्त्रीलिङ्गः उग्रो गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः
7 षड्ग्रन्था षड्ग्रन्था स्त्रीलिङ्गः षड् ग्रन्था ग्रन्थयो यस्याः । बहुव्रीहिः समासः आकारान्तः
8 गोलोमी गोलोमी स्त्रीलिङ्गः गौर्लोमास्याः । बहुव्रीहिः समासः ईकारान्तः
9 शतपर्विका शतपर्विका स्त्रीलिङ्गः शतं पर्वाण्यस्याः सन्ति । बहुव्रीहिः समासः आकारान्तः