दार्वी

सुधाव्याख्या

दीर्यते । ‘दॄ विदारणे' (क्रया० प० से०) । “दॄसनि-' (उ० १.३) इति ञुण् । ‘वोत:-' (४.१.४४) इति ‘-गौरादिभ्य:-' (४.१.४१) इति वा ङीष् । ‘दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ' (इति मेदिनी) ॥