अमरकोशः


श्लोकः

तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तृण्या तृण्या स्त्रीलिङ्गः तृणानां संहतिः समूहः । तद्धितः आकारान्तः
2 नड्या नड्या स्त्रीलिङ्गः नडानां संहतिः। तद्धितः आकारान्तः
3 तृणराजाह्वय तृणराजाह्वयः पुंलिङ्गः तृणानां राजा । तृणराज इत्याह्वयो यस्य बहुव्रीहिः समासः अकारान्तः
4 ताल तालः पुंलिङ्गः तालयति । अच् कृत् अकारान्तः
5 नालिकेर नालिकेरः पुंलिङ्गः नालिश्चासौ केरश्च ॥ तत्पुरुषः समासः अकारान्तः
6 लाङ्गली लाङ्गली स्त्रीलिङ्गः लङ्गति । अलच् बाहुलकात् ईकारान्तः