तालः

सुधाव्याख्या

तालयति । “तल प्रतिष्ठायाम्’ चुरादिः । पचाद्यच् (३.१.१३४) । ‘तालः करतले ऽङ्गुष्ठमध्यमाभ्यां च संमितेः । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्' (इति मेदिनी) ॥ तलति । अच् (३.१.१३४) ‘तलश्चपेटे तालद्रौ तलं ज्याघातवारणे । त्सरौ स्वभावधरयोस्तन्त्रीघाते च संमतम् ॥