नालिकेरः

सुधाव्याख्या

नालीति । नलति, नल्यते, वा । ‘णल गन्धे' (भ्वा० प० से०) । बाहुलकादिण् । केन वायुना ईर्यते । ‘ईर प्रेरणे' (अ० अ० से०) । घञ् (३.३.१९) । नालिश्चासौ केरश्च ॥ कपिलिकादिः (वा० ८.२.१८) ॥ (नारिकेलः) ॥


प्रक्रिया

धातुः - णलँ गन्धे बन्धने च , ईरँ गतौ कम्पने च


णलँ गन्धे बन्धने च
नल् - णो नः 6.1.65, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नल् + इण् - बाहुलकात् ।
नल् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नाल् + इ - अत उपधायाः 7.2.116
नालि
ईरँ गतौ कम्पने च
ईर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क + टा + ईर् + घञ् - उपपदमतिङ् 2.2.19, अकर्तरि च कारके संज्ञायाम् 3.3.19
क + ईर् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
क + ईर् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
केर - आद्गुणः 6.1.87
नालि + सु + केर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
नालि + केर - सुपो धातुप्रातिपदिकयोः 2.4.71
नालिकेर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नालिकेर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नालिकेर + रु - ससजुषो रुः 8.2.66
नालिकेर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नालिकेरः - खरवसानयोर्विसर्जनीयः 8.3.15