अमरकोशः


श्लोकः

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीरण वीरणम् नपुंसकलिङ्गः विं पक्षिणमीरयति । ल्यु कृत् अकारान्तः
2 वीरतर वीरतरम् नपुंसकलिङ्गः अतिशयितं वीरम् । तरप् तद्धितः अकारान्तः
3 उशीर उशीरम् पुंलिङ्गः, नपुंसकलिङ्गः उश्यते । ईरन् उणादिः अकारान्तः
4 अभय अभयम् नपुंसकलिङ्गः न भयमस्मात् । तत्पुरुषः समासः अकारान्तः
5 नलद नलदम् नपुंसकलिङ्गः नलं गन्धं ददाति, दयते, वा । कृत् अकारान्तः
6 सेव्य सेव्यम् नपुंसकलिङ्गः सेवितुमर्हम् । ण्यत् कृत् अकारान्तः
7 अमृणाल अमृणालम् नपुंसकलिङ्गः मृणालमिव । सादृश्येऽत्र नञ् ॥ तत्पुरुषः समासः अकारान्तः
8 जलाशय जलाशयम् नपुंसकलिङ्गः जले आशेते । अच् कृत् अकारान्तः