अमरकोशः


श्लोकः

स्याद्भद्रमुस्तको गुंद्रा चूडाला चक्रलोच्चटा । वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भद्रमुस्तक भद्रमुस्तकः पुंलिङ्गः भद्रश्चासौ मुस्तकश्च ॥ रन् उणादिः अकारान्तः
2 गुन्द्रा गुन्द्रा स्त्रीलिङ्गः गां जलं द्राति। कृत् आकारान्तः
3 चूडाला चूडाला स्त्रीलिङ्गः चूडास्त्यस्याः । लच् तद्धितः आकारान्तः
4 चक्रला चक्रला स्त्रीलिङ्गः चक्रं लाति । कृत् आकारान्तः
5 उच्चटा उच्चटा स्त्रीलिङ्गः उच्चटति । अच् कृत् आकारान्तः
6 वंश वंशः पुंलिङ्गः वमति । बाहुलकात् अकारान्तः
7 त्वक्सार त्वक्सारः पुंलिङ्गः त्वक् त्वचि वा सारोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 कर्मार कर्मारः पुंलिङ्गः कर्म क्रियामृच्छति । अण् कृत् अकारान्तः
9 त्वचिसार त्वचिसारः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
10 तृणध्वज तृणध्वजः पुंलिङ्गः तृणेषु ध्वज इव ॥ बहुव्रीहिः समासः अकारान्तः