वंशः

सुधाव्याख्या

वंशे इति – वमति । ‘टुवम् उद्गिरणे' (भ्वा० प० से०) । ‘वृभृवमिकुभ्यः शक्’- इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्तादिवृत्तिष्वदर्शनात् । अनुनासिकलोपस्य (६.४.३७) उपधादीर्घस्य (६.४.१५) च प्रसङ्गाच्च । कुशभृशयोर्धात्वन्तरेण सिद्धत्वाच्च । वनति, वन्यते, वा । ‘वन शब्दे' (भ्वा० प० से०) । बाहुलकात् शः । उश्यते, वष्टि, वा । ‘वश कान्तौ' (अ० प० से०) घञ् (३.३.१९) । संज्ञापूर्वकत्वान्न वृद्धिः । अच् (३.१.१३४) । ‘संख्या वंश्येन' (२.१.१९) इति निर्देशान्नुम् । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च’।' २ ॥ (विश्वः) ॥