भद्रमुस्तकः

सुधाव्याख्या

स्यादिति । भन्दते । ‘भदि कल्याणे' (भ्वा० आ० से०) । ‘ऋजेन्द्र-' (उ० २.१८) इति साधुः । भद्रं करोति वा । ‘तत्करोति' (वा० ३.१.२६) इति ण्यन्तादच् (३.१.१३४) । भद्रश्चासौ मुस्तकश्च ॥ ‘भद्रम् अपि नाम । ‘भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे' इति रुद्रः ॥


प्रक्रिया

धातुः - भदिँ कल्याणे सुखे च


भद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भन्द् - इदितो नुम् धातोः 7.1.58, नश्चापदान्तस्य झलि 8.3.24, अनुस्वारस्य ययि परसवर्णः 8.4.58
भद् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२९) । उणादिसूत्रम् ।
भद् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भद्र + सु + मुस्तक + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
भद्र + मुस्तक - सुपो धातुप्रातिपदिकयोः 2.4.71
भद्रमुस्तक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भद्रमुस्तक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भद्रमुस्तक + रु - ससजुषो रुः 8.2.66
भद्रमुस्तक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भद्रमुस्तकः - खरवसानयोर्विसर्जनीयः 8.3.15