अमरकोशः


श्लोकः

पारावताघ्रि: कटभी पण्या ज्योतिष्मती लता । वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका ॥ १५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पारावताङ्घ्रि पारावताङ्घ्रिः स्त्रीलिङ्गः पारेति पारावत इवाङ्घ्रिरस्याः ॥ बहुव्रीहिः समासः इकारान्तः
2 कटभी कटभी स्त्रीलिङ्गः कटवद्भाति । कृत् ईकारान्तः
3 पण्या पण्या स्त्रीलिङ्गः पण्यते । कृत् आकारान्तः
4 ज्योतिष्मती ज्योतिष्मती स्त्रीलिङ्गः ज्योतिरस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
5 लता लता स्त्रीलिङ्गः लतति । अच् कृत् आकारान्तः
6 वार्षिक वार्षिकम् नपुंसकलिङ्गः वर्षासु ‘भवं जातं वा । ठक् तद्धितः अकारान्तः
7 त्रायमाणा त्रायमाणा स्त्रीलिङ्गः त्रायते । शानच् कृत् आकारान्तः
8 त्रायन्ती त्रायन्ती स्त्रीलिङ्गः त्राणम् क्विप् कृत् ईकारान्तः
9 बलभद्रिका बलभद्रिका स्त्रीलिङ्गः बलेन भद्रा । कन् तद्धितः आकारान्तः