त्रायमाणा

सुधाव्याख्या

त्रायते । 'त्रैङ् पालने' (भ्वा० आ० अ०) । शानच् (३.२.१२८) चानश् (३.२.१२९) वा । ('त्रायमाणा वार्षिके, स्त्री रक्ष्यमाणेऽभिधेयवत्' इति मेदिनी) ॥


प्रक्रिया

धातुः - त्रैङ् पालने


त्रै + लट् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्रै + शप् + लट् - वर्तमाने लट् 3.2.123
त्रै + शप् + शानच् - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
त्रै + अ + आन - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
त्र् + आय् + अ + आन - एचोऽयवायावः 6.1.78
त्राय + मुक् + आन - आने मुक् 7.2.82
त्राय + म् + आन - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रायमाण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
त्रायमाण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
त्रायमाण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
त्रायमाणा - अकः सवर्णे दीर्घः 6.1.101
त्रायमाणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रायमाणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रायमाणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68