त्रायन्ती

सुधाव्याख्या

त्राणम् । त्राः । सम्पदादिः (वा० ३.३.१०८) । त्रा अयति । ‘इ गतौ (भ्वा० प० से०) । शता (३.२.१२४), (ङीप् ४.१.६) । 'शप्श्यनो- (७.१.८१) इति नुम् ॥


प्रक्रिया

धातुः - त्रैङ् पालने , इण् गतौ


त्रैङ् पालने
त्रै - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्रै + क्विप् - संपदादिभ्यः क्विप् 3.3.108 । वार्तिकम् ।
त्रै - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9, वेरपृक्तस्य 6.1.67
त्रा - आदेच उपदेशेऽशिति 6.1.45
इण् गतौ
इ + अच् - एरच् 3.3.56
इ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ए + अ - सार्वधातुकार्धधातुकयोः 7.3.84
अय् + अ - एचोऽयवायावः 6.1.78
त्रा + सु + अय + सु - उपपदमतिङ् 2.2.19,
त्राय - अकः सवर्णे दीर्घः 6.1.101
त्राय + शप् + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
त्राय + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
त्रायत् + ङीप् - उगितश्च 6.3.45
त्रायत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
त्रायत् + ई - यस्येति च 6.4.148
त्राय + नुम् + त् + ई - शप्श्यनोर्नित्यम् 7.1.81
त्राय + न् + ई - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9