अमरकोशः


श्लोकः

सूर्यसूतोऽरुणोनूरुः काश्यपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सूर्यसूत सूर्यसूतः पुंलिङ्गः सूर्यस्य सूतः । तत्पुरुषः समासः अकारान्तः
2 अरुण अरुणः पुंलिङ्गः अरुणो वर्णोऽस्यास्ति । अच् तद्धितः अकारान्तः
3 अनूरु अनूरुः पुंलिङ्गः अविद्यमानावूरू यस्य । बहुव्रीहिः समासः उकारान्तः
4 काश्यपि काश्यपिः पुंलिङ्गः कश्यपस्यापत्यम् । इञ् तद्धितः इकारान्तः
5 गरुडाग्रज गरुडाग्रजः पुंलिङ्गः गरुडस्याग्रजः । बहुव्रीहिः समासः अकारान्तः
6 परिवेष परिवेषः पुंलिङ्गः परितो विष्यतेऽनेन । तत्पुरुषः समासः अकारान्तः
7 परिधि परिधिः पुंलिङ्गः परितो धीयतेऽनेन । तत्पुरुषः समासः इकारान्तः
8 उपसूर्यक उपसूर्यकः नपुंसकलिङ्गः उपगत सूर्यमुपसूर्यम् । तत्पुरुषः समासः अकारान्तः
9 मण्डल मण्डलः नपुंसकलिङ्गः मन्दति । कलच् उणादिः अकारान्तः