अ + ऊरू + सु |
- नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् । |
अ + नुट् ऊरू |
- तस्मान्नुडचि 6.3.74 |
अ + न् + ऊरू |
- हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
अनूरू + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
अनूरू + स् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
अनूरू |
- हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 |