परिवेषः

सुधाव्याख्या

परितो विष्यतेऽनेन । विष्लृ व्याप्तौ’ (जु० उ० अ०) । घञ् (३.३.१८) । ‘परिवेषः स्यात्परिधौ परिवेषणे’ इति मूर्धन्यान्ते रुद्रः । ‘विश प्रवेशने' (तु० प० अ०) । अस्माद्धञि तु तालव्यान्तः । ‘वेष्टने परिवेशः स्याद्भानोः सविधमण्डले’ इति तालव्यान्ते रभसः ।