अमरकोशः


श्लोकः

अपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपिधान अपिधानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 तिरोधान तिरोधानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 पिधान पिधानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 आच्छादन आच्छादनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 हिमांशु हिमांशुः पुंलिङ्गः हिमा अंशवो यस्य । बहुव्रीहिः समासः उकारान्तः
6 चद्रमस् चन्द्रमाः पुंलिङ्गः चन्द्रं कर्पूरं सादृश्येन माति तुलयति । असुन् उणादिः सकारान्तः
7 चन्द्र चन्द्रः पुंलिङ्गः चन्दति । रक् उणादिः अकारान्तः
8 इन्दु इन्दुः पुंलिङ्गः उनत्ति । उणादिः उकारान्तः
9 कुमुदबान्धव कुमुदबान्धवः पुंलिङ्गः कुमुदानां बान्धवः । तत्पुरुषः समासः अकारान्तः