चन्द्रः

सुधाव्याख्या

चन्दति । ‘चदि आह्लादने-' (भ्वा० प० से०) । 'स्फायितञ्छि-’ (उ० २.१३) इति रक् । चंद्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कर्पूरे काम्पिल्ये मेचकेऽपि च' इति हैमः । अचि (३.३.१३४) रेफशून्योऽपि । ‘हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः’ इति शब्दार्णवात् ।


प्रक्रिया

धातुः - चदिँ आह्लादे दीप्तौ च


चद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द् - इदितो नुम् धातोः 7.1.58
चन्द् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
चन्द् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चन्द्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चन्द्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्र + रु - ससजुषो रुः 8.2.66
चन्द्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्रः - खरवसानयोर्विसर्जनीयः 8.3.15