चन्द्रमाः

सुधाव्याख्या

चन्द्रं कर्पूरं सादृश्येन माति तुलयति । ‘चन्द्रे मो डिच्च' (उ०४.२२८) इत्यसुन् । चन्द्रमाह्लादं मिमीते निर्मिमीते इति वा । बाहुलकात्केवलादप्यसिः मिमीते आनन्दम्’ इत मा: = चन्द्रः । ‘मास्शब्दः केवलोऽपीह संमतो बहुदृश्वनाम् इत्युत्पलिनी । (‘माश्चन्द्रमासयोः पुमान्') कालं मिमीते माश्चासौ चन्द्रश्च = चन्द्रमा: - इति वा । राजदन्तादिः (२.२.३१) |


प्रक्रिया

धातुः - माङ् माने शब्दे च


मा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चन्द्र + अम् + मा + असि - चन्द्रे मो डित् । (4.227) उणादि ।
चन्द्र + मा + असि - सुपो धातुप्रातिपदिकयोः 2.4.71
चन्द्र + मा + अस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्र + म् + अस् - डित्वसामर्थ्यादभस्यापि टेर्लोपः
चन्द्रमस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चन्द्रमस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्रमास् + स् - अत्वसन्तस्य चाधातोः 6.4.14
चन्द्रमास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
चन्द्रमारु - ससजुषो रुः 8.2.66
चन्द्रमार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्रमाः - खरवसानयोर्विसर्जनीयः 8.3.15