अमरकोशः


श्लोकः

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करक करकः पुंलिङ्गः, स्त्रीलिङ्गः कृणोति वुन् उणादिः अकारान्तः
2 दुर्दिन दुर्दिनम् नपुंसकलिङ्गः दुर्निन्दितं दिनम् । तत्पुरुषः समासः अकारान्तः
3 अन्तर्ध अन्तर्धा स्त्रीलिङ्गः अन्तर्धानम् । अङ् कृत् अकारान्तः
4 व्यवधा व्यवधा स्त्रीलिङ्गः व्यवधानम् । अङ् कृत् आकारान्तः
5 अन्तर्धि अन्तर्धिः स्त्रीलिङ्गः अन्तर्धानम् । कि कृत् इकारान्तः
6 अपवारण अपवारणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः