करकः

सुधाव्याख्या

कृणोति । ‘कृञ् हिंसायाम्' (स्वा० उ० अ०) । 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५.३५) क्षिपकादित्वात् (वा० ७.३.४५) इत्वाभावः पुंस्यपि । ‘वर्षोपलस्तु करका करकोऽपि च दृश्यते । ('करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करङ्के च कमण्डलौ)